|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.41. अध्यायः 041
Mahabharata - Karna Parva - Chapter Topics
सेनाद्वये व्यूहरचनावर्णनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-41-0x(4946)(56872)
ततः परानीकभिदं व्यूहमप्रतिमं महत्।
समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम्॥ 8-41-1(56873)
प्रययौ रथघोषेण सिंहनादरवेण च।
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम्॥ 8-41-2(56874)
वेपमान इव क्रोधाद्युद्वशौण्डः परन्तपः।
प्रतिव्यूह्य महातेजा यथावद्भरतर्षभ॥ 8-41-3(56875)
व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव।
युधिष्ठिरं चाभ्यहनदपसव्यं चकारह॥ 8-41-4(56876)
कर्णस्य रथघोषेण मौर्वीनिष्पेषणेन च।
सुसङ्ग्राहेण रश्मीनां समकम्पन्त सृञ्जयाः॥ 8-41-5(56877)
तानि सर्वाणि सैन्यानि कर्ण दृष्ट्वा विशाम्पते।
बभूवुः सम्प्रहृष्टानि तावकानि युयुत्सया॥ 8-41-6(56878)
अश्रूयन्त ततो वाचस्तावकानां विशाम्पते।
कर्णार्जुनमहायुद्धमेतदद्य भविष्यति॥ 8-41-7(56879)
अद्य दुर्योधनो राजा हतामित्रो भविष्यति।
अद्य कर्णं रणे दृष्ट्वा फल्गुनो विद्रविष्यति॥ 8-41-8(56880)
अद्य तावद्वयं युद्धे कर्णस्यैवानुगामिनः।
कर्णबाणमयं भीमं युद्धं द्रक्ष्याम संयुगे॥ 8-41-9(56881)
चिरकालेप्सितमिदमद्येदानीं भविष्यति।
अद्य द्रक्ष्याम सङ्ग्रामं घोरं देवासुरोपमम्॥ 8-41-10(56882)
अद्येदानीं महद्युद्धं भविष्यति भयानकम्।
अद्येदानीं जयो नित्यमेकस्यैकस्य वा रणे॥ 8-41-11(56883)
अर्जुनं किल राधेयो वधिष्यति महारणे।
अथवा कं नरं लोके न स्पृशन्ति मनोरथाः॥ 8-41-12(56884)
इत्युक्त्वा विविधा वाचः कुरवः कुरुनन्दन।
आजघ्नुः पटहांश्चैव तूर्यांश्चैव सहस्रशः॥ 8-41-13(56885)
भेरीनादांश्च विविधान्सिंहनादांश्च पुष्कलान्।
मुरजानां महाशब्दानानकानां महारवान्॥ 8-41-14(56886)
नृत्यमानाश्च बहुशस्तर्जमानाश्च मारिष।
अन्योन्यमभ्ययुर्युद्धे युद्धरङ्गगता नराः॥ 8-41-15(56887)
तेषां पदाता नागानां पादरक्षाः समन्ततः।
पट्टसासिधराः शूराश्चापबाणमुसुण्ठिनः॥ 8-41-16(56888)
भिण्डिपालधराश्चैव शूरलहस्ताः सुचक्रिणः।
तेषां समागमो घोरो देवासुररणोपमः॥ 8-41-17(56889)
धृतराष्ट्रं उवाच। 8-41-18x(4947)
कथं सञ्जय राधेयः प्रत्यव्यूहत पाण्डवान्।
धृष्टद्युम्नमुखान्सङ्ख्ये भीमसेनाभिरक्षितान्।
सर्वानेव महेष्वासानजय्यानमरैरपि॥ 8-41-18(56890)
के च प्रपक्षौ पक्षौ वा मम सैन्यस्य सञ्जय।
प्रविभज्य यथान्यायमवतस्थुः सुदंशिताः॥ 8-41-19(56891)
कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान्।
कथं चैतन्महद्युद्धं प्रावर्तत सुदारुणम्॥ 8-41-20(56892)
क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम्।
को ह्यर्जुनस्य सान्निध्ये शक्तो जेतुं युधिष्ठिरम्॥ 8-41-21(56893)
सर्वभूतानि यो ह्येकः खाण्डवे जितबान्पुरा।
कस्तमन्यस्तु राधेयात्प्रतियुध्येज्जिजीविषुः॥ 8-41-22(56894)
सञ्जय उवाच। 8-41-23x(4948)
शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः।
परिवार्य नृपान्सर्वान्सङ्ग्रामश्चाभवद्यथा॥ 8-41-23(56895)
कृपः शारद्वतो राजन्मागधाश्च तरस्विनः।
सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः॥ 8-41-24(56896)
तेषां प्रपक्षे शकुनिरुलूकश्च महारथः।
सादिभिर्विमलप्रासैस्तदानीमभ्यरक्षताम्॥ 8-41-25(56897)
गान्धारैश्चाप्यसम्भ्रान्तैः पार्वतीयैश्च दुर्जयैः।
शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः॥ 8-41-26(56898)
चतुर्विंशत्सहस्राणि रथानामनिवर्तिनाम्।
संशप्तका युद्वशौण्डा वामपाश्वमपालयन्॥ 8-41-27(56899)
समन्वितास्तव सुतैः कृष्णार्जुनजिघांसवः।
तेषां प्रपक्षाः काम्भोजाः शकाश्च यवनैः सह॥ 8-41-28(56900)
निदेशात्सूतपुत्रस्य सरथाश्वेभपत्तयः।
आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम्॥ 8-41-29(56901)
ततः सेनामुखे कर्णोऽप्यवातिष्ठत दंशितः।
चित्रवर्माङ्गदः स्रग्वी पालयन्वाहिनीमुखम्॥ 8-41-30(56902)
रक्षमाणैः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः।
वाहिनीं प्रमुखे वीरः सम्प्रकर्षन्नशोभत॥ 8-41-31(56903)
अशोकस्तु महाबाहुः सूर्यवैश्वानरप्रभः।
महाद्विपस्कन्धगतः पिङ्गाक्षः प्रियदर्शनः।
दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः॥ 8-41-32(56904)
तन्मध्ये स महाबाहुः स्वयं दुर्योधनो नृपः।
चित्राश्वैश्चित्रसन्नाहैः सोदर्यैरभिरक्षितः॥ 8-41-33(56905)
रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः।
अशोभत महाराज देवैरिव शतक्रतुः॥ 8-41-34(56906)
अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः।
नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैः समन्विताः।
अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः॥ 8-41-35(56907)
ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः।
सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः॥ 8-41-36(56908)
तेषां पदातिनागानां पादरक्षाः सहस्रशः।
पट्टसासिधराः शूरा बभूवुरनिवर्तिनः॥ 8-41-37(56909)
सादिभिः स्यन्दनैर्नागैरधिकं समलङ्कृतैः।
स व्यूहराजो विबभौ देवासुरचमूपमः॥ 8-41-38(56910)
बार्हस्पत्यः सुविहितो नायकेन विपश्चिता।
नृत्यतीव महाव्यूहः परेषां भयमादधत्॥ 8-41-39(56911)
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः।
हस्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः॥ 8-41-40(56912)
ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः।
धनञ्जयममित्रघ्नमेकवीरमुवाच ह॥ 8-41-41(56913)
पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे।
युक्तं पक्षैः प्रपक्षैश्च परानीकं प्रकाशते॥ 8-41-42(56914)
तत्समीपगतं ह्येतत्प्रत्यमित्रं महद्बूलम्।
यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम्॥ 8-41-43(56915)
सञ्जय उवाच। 8-41-44x(4949)
एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत्॥ 8-41-44(56916)
यथा यथा भवानाह तत्तथा न तदन्यथा।
यत्तस्य विहितं कार्यं तत्करिष्यामि सुव्रत।
प्रधानमथ चैवास्य विनाशं च करोम्यहम्॥ 8-41-45(56917)
तस्मात्त्वं जहि राधेयं भीमसेनः सुयोधनम्।
वृषसेनं च नकुलः सहदेवोऽपि सौबलम्॥ 8-41-46(56918)
दुःशानं शतानीको हार्दिक्यं शिनिपुङ्गवः।
धृष्टद्युम्नो द्रोणसुतं स्वयं योत्स्याम्यहं कृपम्॥ 8-41-47(56919)
द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना।
ते ते च तांस्तानहितानस्माकं घ्न्तु मामकाः॥ 8-41-48(56920)
सञ्जय उवाच। 8-41-49x(4950)
इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनञ्जयः।
व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम्॥ 8-41-49(56921)
धनञ्जयो महाराज दक्षिणं पक्षमास्थितः।
भीमसेनो महाबाहुर्वामं पक्षमुपाश्रितः॥ 8-41-50(56922)
सात्यकिर्द्रौपदेयाश्च स्वयं राजा च पाण्डवः।
व्यूहस्य प्रमुखे तस्थुः स्वेनानीकेन संवृताः॥ 8-41-51(56923)
स्वबलेनारिसैन्यं तत्प्रत्यवस्थाप्य पाण्डवः।
प्रत्यव्यूहत्पुरस्कृत्य धृष्टद्युम्नशिखण्डिनौ॥ 8-41-52(56924)
तत्सादिनागकलिलं पदातिरथसङ्कुलम्।
धृष्टद्युम्नमुखं घोरमशोभत महद्बलम्॥ ॥ 8-41-53(56925)
इति श्रीमन्महाभारते कर्णपर्वणि एकचत्वारिंशोऽध्यायः॥ 41 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|